Skip to content

Ch 12 · रचना प्रयोग

पत्रलेखनम्

Exercise 5 of 6
Questions on this page

पाठ 12: रचना प्रयोग

पत्रलेखनम् · व्याकरणवीथिः · कक्षा 10 · NCERT 2026-27

पत्रलेखन, दूरभाषवार्ता, अपठित गद्यांश (एकपदेन, पूर्णवाक्येन, यथानिर्देशम्), अनुच्छेदलेखन और निबन्धलेखन के सभी प्रश्नों के आदर्श उत्तर।

प्रश्न 1NCERT PDF पृष्ठ 1
रुग्णतायाः कारणात् अवकाशप्राप्तये प्रधानाचार्यं प्रति पत्रं लिखत।
उत्तर

सेवायाम्
प्रधानाचार्यमहोदयः
केन्द्रीयविद्यालयः
आर. के. पुरम्, सैक्टर-द्वितीयः
नवदेहली — 110022

विषयः — अवकाशप्राप्तये निवेदनम्।

मान्यवर / महोदय,

सविनयं निवेदनमस्ति यत् अहं शिरोवेदनया पीडितः अस्मि। चिकित्सकः दिनद्वयं विश्रामं कर्तुम् उपदिष्टवान्। अतः अद्य विद्यालयम् आगन्तुम् असमर्थः अस्मि। कृपया दिनद्वयस्य अवकाशं प्रदाय माम् अनुगृह्णन्तु भवन्तः।

धन्यवादाः।

भवतां विनीतः शिष्यः
नरेन्द्रः
कक्षा — दशमी, वर्गः — ‘ब’
दिनाङ्कः — ........

प्रश्न 2NCERT PDF पृष्ठ 2
शुल्कक्षमापनार्थं प्रधानाचार्यं प्रति पत्रं लिखत।
उत्तर

सेवायाम्
प्रधानाचार्यमहोदयः
राजकीयोच्चतरमाध्यमिकविद्यालयः
जयपुरम्

विषयः — शुल्कक्षमायै प्रार्थनापत्रम्।

मान्यवर / महोदय,

सविनयं निवेदयामि यत् अहम् अस्य विद्यालयस्य दशमकक्षायाः छात्रः अस्मि। मम पिता दीर्घकालात् अस्वस्थः अस्ति, अतः गृहस्य आर्थिकस्थितिः शोचनीया जाता। अहं पठने सदा प्रथमश्रेण्याम् उत्तीर्णः भवामि। अतः कृपया मम पूर्णं शुल्कं क्षमयित्वा मम अध्ययनस्य अवसरं प्रयच्छन्तु।

धन्यवादाः।

भवतां विनीतः शिष्यः
राहुलः
कक्षा — दशमी, अनुक्रमाङ्कः — 14
दिनाङ्कः — ........

प्रश्न 3NCERT PDF पृष्ठ 3
पुस्तकानि प्रेषयितुं प्रकाशकं प्रति पत्रं लिखत।
उत्तर

सेवायाम्
प्रकाशकमहोदयः
संस्कृतभारती-प्रकाशनम्
वाराणसी

विषयः — पुस्तकानां प्रेषणाय निवेदनम्।

मान्यवर / महोदय,

अहं भवतः प्रकाशनात् निम्नलिखितानि पुस्तकानि वी.पी.पी. द्वारा प्रेषयितुम् इच्छामि —

पुस्तकस्य नामलेखकस्य नामप्रतिः
अभिज्ञानशाकुन्तलम्कालिदासः2
पञ्चतन्त्रम्विष्णुशर्मा3
हितोपदेशःनारायणपण्डितः2

कृपया उचितं कमीशनं दत्त्वा पुस्तकानि शीघ्रं प्रेषयन्तु। धनस्य भुगतानं पुस्तकप्राप्तेः समये करिष्यामि।

धन्यवादाः।

भवदीयः
सुरेशः
गान्धिनगरम्, दिल्ली
दिनाङ्कः — ........

प्रश्न 4NCERT PDF पृष्ठ 4
स्वभगिन्याः विवाहे आमन्त्रयितुं स्वमित्रं प्रति पत्रं लिखत।
उत्तर

शिवाजीनगरम्
पुणे
दिनाङ्कः — ........

प्रिय मित्र मोहन!

सप्रेम नमस्ते।

अत्र सर्वं कुशलं, भवतः कुशलं कामये। भवते प्रियसमाचारः दीयते यत् मम भगिन्याः सुनीतायाः विवाहः आगामिनि मासस्य दशमे दिनाङ्के निश्चितः अस्ति। कार्यक्रमः — दशमदिनाङ्के सायं सप्तवादने वरयात्रा, एकादशदिनाङ्के प्रातः नववादने पाणिग्रहणम्, तदनन्तरं सहभोजः। भवान् सपरिवारम् अस्मिन् शुभावसरे अवश्यम् आगच्छतु इति मम सविनयं निमन्त्रणम्। भवतः आगमनेन अस्माकं हर्षः द्विगुणितः भविष्यति।

मातापितृभ्यां मम प्रणामाः निवेदनीयाः।

भवतः मित्रम्
रमेशः

प्रश्न 5NCERT PDF पृष्ठ 5
पितरौ प्रति परीक्षायाः परिणामसूचकं पत्रं लिखत।
उत्तर

छात्रावासः
केन्द्रीयविद्यालयः
दिल्लीछावनी, नवदेहली
दिनाङ्कः — ........

वन्दनीयौ पितृचरणौ!

सादरं प्रणामाः।

अहम् अत्र कुशलम् अस्मि, भवतोः कुशलं कामये। भवतोः आशीर्वादेन मम वार्षिकपरीक्षायाः परिणामः आगतः। अहं सर्वेषु विषयेषु उत्तीर्णः अभवम् तथा च प्रथमश्रेण्यां 85 प्रतिशतम् अङ्कान् प्राप्तवान्। संस्कृतविषये मम अङ्काः सर्वाधिकाः सन्ति। अध्यापकाः मम परिश्रमं प्राशंसन्। इदं सर्वं भवतोः शुभाशीर्वादस्य एव फलम्।

मातरं प्रति मम सादरं नमः, अनुजाय स्नेहः।

भवतोः आज्ञाकारी पुत्रः
मनोजः