Skip to content

Ch 12 · वीराङ्गना पन्नाधाया

वयम् अभ्यासं कुर्मः

पाठ 12: वीराङ्गना पन्नाधाया

वयम् अभ्यासं कुर्मः · दीपकम् · कक्षा 7 · NCERT 2026-27

प्रश्नः 1NCERT PDF पृष्ठ 132
अधः प्रदत्तानां प्रश्नानाम् एकपदेन उत्तरं लिखन्तु —
  1. (क) राजस्थानस्य वीराङ्गनासु का सुविख्याता ?
  2. (ख) उदयसिंहः कस्य पुत्रः ?
  3. (ग) बनवीरः कं मारयितुं कुतन्त्रम् अरचयत् ?
  4. (घ) कालान्तरे कः मेवाडस्य राजा अभवत् ?
  5. (ङ) पन्नाधायायाः निर्णयः कीदृशः आसीत् ?
  6. (च) महाराणाप्रतापः केषां हृदये चिरं स्थानं प्राप्नोत् ?
उत्तरम्

(क) पन्नाधाया
(ख) महाराणासङ्ग्रामसिंहस्य
(ग) उदयसिंहम्
(घ) उदयसिंहः
(ङ) अकल्पनीयः
(च) भारतीयानाम्

प्रश्नः 2NCERT PDF पृष्ठ 132
अधः प्रदत्तानां प्रश्नानां पूर्णवाक्येन उत्तरं लिखन्तु —
  1. (क) पन्नाधाया कस्य अद्वितीयम् उदाहरणम् अस्ति ?
  2. (ख) महाराणासङ्ग्रामसिंहस्य पुत्रौ कौ आस्ताम् ?
  3. (ग) दुष्टबुद्धिः बनवीरः किम् अचिन्तयत् ?
  4. (घ) बनवीरस्य कुतन्त्रं ज्ञात्वा पन्नाधाया किम् अकरोत् ?
  5. (ङ) आचन्द्रार्कं किं तिष्ठति ?
  6. (च) पन्नाधायायाः बलिदानं किं शिक्षयति ?
उत्तरम्

(क) पन्नाधाया साहसस्य, त्यागस्य, निष्ठायाः च अद्वितीयम् उदाहरणम् (अद्वितीया मूर्तिः) अस्ति।
(ख) महाराणासङ्ग्रामसिंहस्य पुत्रौ विक्रमादित्यः उदयसिंहः च आस्ताम्।
(ग) दुष्टबुद्धिः बनवीरः अचिन्तयत् – “अहम् एकः एव उत्तराधिकारी भवेयम्, न कोऽपि मम प्रतिस्पर्धी स्यात्” इति।
(घ) बनवीरस्य कुतन्त्रं ज्ञात्वा पन्नाधाया उदयसिंहस्य शयनस्थाने स्वपुत्रं चन्दनं शायितवती (उदयसिंहस्य रक्षणं च कृतवती)।
(ङ) पन्नाधायायाः त्यागः शौर्यं च जगति आचन्द्रार्कं तिष्ठति।
(च) पन्नाधायायाः बलिदानं सर्वान् शौर्यं, राष्ट्रभक्तिं, कर्तव्यनिष्ठां, बलिदानं, विवेकं च शिक्षयति।

प्रश्नः 3Fill in the blanksNCERT PDF पृष्ठ 133
उदाहरणानुसारम् उचितैः पदैः (लङ्-लकारः) रिक्तस्थानानि पूरयन्तु —
यथा –
  1. (क) अमिलत् – अमिलताम् – अमिलन्
  2. (ख) ____ – अवदतम् – ____
  3. (ग) अखादः – ____ – ____
  4. (घ) ____ – ____ – अलिखन्
  5. (ङ) ____ – अरक्षाव – ____
  6. (च) ____ – ____ – अपिबत (छ) अपृच्छम् – ____ – ____ (ज) ____ – अमारयताम् – ____ (झ) ____ – ____ – अभवाम
उत्तरम्

(ख) अवदः – अवदतम् – अवदत
(ग) अखादः – अखादतम् – अखादत
(घ) अलिखत् – अलिखताम् – अलिखन्
(ङ) अरक्षम् – अरक्षाव – अरक्षाम
(च) अपिबः – अपिबतम् – अपिबत
(छ) अपृच्छम् – अपृच्छाव – अपृच्छाम
(ज) अमारयत् – अमारयताम् – अमारयन्
(झ) अभवम् – अभवाव – अभवाम

प्रश्नः 4NCERT PDF पृष्ठ 133
वाक्यानि पठित्वा उदाहरणानुसारं वचनपरिवर्तनं कुर्वन्तु (एकवचनम् – द्विवचनम् – बहुवचनम्) —
यथा –
  1. (क) सः शालाम् अगच्छत्। – तौ शालाम् अगच्छताम्। – ते शालाम् अगच्छन्।
  2. (ख) बालिका पद्यम् अलिखत्।
  3. (ग) शिक्षकः अवदत्।
  4. (घ) सा चित्रम् अपश्यत्।
  5. (ङ) त्वम् अक्रीडः।
  6. (च) त्वं जलम् अनयः। (छ) अहं मन्दिरम् अगच्छम्। (ज) अहं मधुरम् अखादम्।
उत्तरम्

(ख) बालिके पद्यम् अलिखताम्। बालिकाः पद्यम् अलिखन्।
(ग) शिक्षकौ अवदताम्। शिक्षकाः अवदन्।
(घ) ते चित्रम् अपश्यताम्। ताः चित्रम् अपश्यन्।
(ङ) युवाम् अक्रीडतम्। यूयम् अक्रीडत।
(च) युवां जलम् अनयतम्। यूयं जलम् अनयत।
(छ) आवां मन्दिरम् अगच्छाव। वयं मन्दिरम् अगच्छाम।
(ज) आवां मधुरम् अखादाव। वयं मधुरम् अखादाम।

प्रश्नः 5NCERT PDF पृष्ठ 133
उदाहरणानुसारं रेखाङ्कितानि पदानि आश्रित्य प्रश्ननिर्माणं कुर्वन्तु —
यथा – महाराणासङ्ग्रामसिंहस्य भ्राता पृथ्वीराजः। – कस्य भ्राता पृथ्वीराजः ?
  1. (क) सः अचिन्तयत्।
  2. (ख) शयनस्थाने चन्दनं शायितवती।
  3. (ग) राष्ट्रहितं श्रेष्ठम्।
  4. (घ) बनवीरः चन्दनम् अमारयत्।
  5. (ङ) तस्याः निर्णयः अकल्पनीयः आसीत्।
  6. (च) उदयसिंहः मेवाडस्य राजा अभवत्।
    (छ) मम प्रतिस्पर्धी न स्यात्।
उत्तरम्

(क) कः अचिन्तयत् ?
(ख) कुत्र चन्दनं शायितवती ?
(ग) किं श्रेष्ठम् ?
(घ) बनवीरः कम् अमारयत् ?
(ङ) कस्याः निर्णयः अकल्पनीयः आसीत् ?
(च) उदयसिंहः कस्य राजा अभवत् ?
(छ) कस्य प्रतिस्पर्धी न स्यात् ?

प्रश्नः 6NCERT PDF पृष्ठ 134
उदाहरणानुसारम् अधः प्रदत्तानां पदानां सन्धिं कुर्वन्तु —
यथा – विद्या + अभ्यासः = विद्याभ्यासः
  1. (क) मम + अपि
  2. (ख) विद्या + अर्थी
  3. (ग) सह + अनुभूतिः
  4. (घ) कवि + इन्द्रः
  5. (ङ) गिरि + ईशः
  6. (च) वेद + अलङ्कारः (छ) दैत्य + अरिः (ज) सु + उक्तिः
उत्तरम्

(क) ममापि
(ख) विद्यार्थी
(ग) सहानुभूतिः
(घ) कवीन्द्रः
(ङ) गिरीशः
(च) वेदालङ्कारः
(छ) दैत्यारिः
(ज) सूक्तिः
(सवर्ण-दीर्घसन्धिः)

प्रश्नः 7NCERT PDF पृष्ठ 134
उदाहरणानुसारम् अधः प्रदत्तानि वाक्यानि वर्तमानकाले (लट्-लकारे) परिवर्तयन्तु —
यथा – पन्नाधाया राज्यम् अरक्षत्। – पन्नाधाया राज्यं रक्षति।
  1. (क) उदयसिंहः वीरः आसीत्।
  2. (ख) अहं तत् सर्वम् अपश्यम्।
  3. (ग) बनवीरः कुतन्त्रम् अकरोत्।
  4. (घ) त्वं शयनस्थानम् अगच्छः।
  5. (ङ) ते कथाम् अपठन्।
उत्तरम्

(क) उदयसिंहः वीरः अस्ति।
(ख) अहं तत् सर्वं पश्यामि।
(ग) बनवीरः कुतन्त्रं करोति।
(घ) त्वं शयनस्थानं गच्छसि।
(ङ) ते कथां पठन्ति।