पाठ 6: क्रीडाम वयं श्लोकान्त्याक्षरीम्
वयम् अभ्यासं कुर्मः · दीपकम् · कक्षा 7 · NCERT 2026-27
प्रश्नः 1NCERT PDF पृष्ठ 66
अधः प्रदत्तानां प्रश्नानाम् एकपदेन उत्तरं लिखन्तु —- (क) विद्याहीनाः कीदृशाः किंशुकाः इव न शोभन्ते ?
- (ख) धीमतां कालः कथं गच्छति ?
- (ग) केषां कालः निद्रया कलहेन वा गच्छति ?
- (घ) खलस्य विद्या किमर्थम् ?
- (ङ) सज्जनस्य विद्या किमर्थम् ?
- (च) चन्द्रः केषां भूषणम् अस्ति ?
(छ) सर्वधनप्रधानं किम् ?
उत्तरम्
(क) निर्गन्धाः
(ख) काव्यशास्त्रविनोदेन
(ग) मूर्खाणाम्
(घ) विवादाय
(ङ) ज्ञानाय
(च) ताराणाम्
(छ) विद्याधनम्
प्रश्नः 2NCERT PDF पृष्ठ 67
अधः प्रदत्तानां प्रश्नानां पूर्णवाक्येन उत्तरं लिखन्तु —- (क) निर्गन्धाः किंशुकाः इव के न शोभन्ते ?
- (ख) मूर्खाणां कालः कथं गच्छति ?
- (ग) दुर्जनः विद्यायाः धनस्य शक्तेः च उपयोगं कथं करोति ?
- (घ) कीदृशाः मनुष्याः भुवि भारभूताः भवन्ति ?
- (ङ) शनैः शनैः कानि साधनीयानि ?
उत्तरम्
(क) रूपयौवनसम्पन्नाः विशालकुलसम्भवाः अपि विद्याहीनाः जनाः निर्गन्धाः किंशुकाः इव न शोभन्ते।
(ख) मूर्खाणां कालः व्यसनेन, निद्रया, कलहेन वा गच्छति।
(ग) दुर्जनः विद्यायाः उपयोगं विवादाय, धनस्य उपयोगं मदाय (अहङ्काराय), शक्तेः उपयोगं च परेषां परिपीडनाय करोति।
(घ) येषां न विद्या, न तपः, न दानं, न ज्ञानं, न शीलं, न गुणः, न धर्मः अस्ति, ते मनुष्याः भुवि भारभूताः भवन्ति, मनुष्यरूपेण मृगाः इव चरन्ति।
(ङ) पन्थाः, कन्था, पर्वतलङ्घनं, विद्या, वित्तं च — एतानि पञ्च शनैः शनैः साधनीयानि।
प्रश्नः 3NCERT PDF पृष्ठ 67
उचितान् वाक्यांशान् परस्परं संयोजयन्तु —
तदा वृत्तिश्च कीर्तिश्च / खलस्य साधोर्विपरीतमेतत् / शनैर्विद्या शनैर्वित्तं / विद्याहीना न शोभन्ते / न चोरहार्यं न च राजहार्यम् / विद्या राजसु पूज्यते / अतो धर्मार्थमोक्षेभ्यः
उत्तरम्
तदा वृत्तिश्च कीर्तिश्च … — यदा विद्या भवेत्तव
खलस्य साधोर्विपरीतमेतत् — ज्ञानाय दानाय च रक्षणाय
शनैर्विद्या शनैर्वित्तं — पञ्चैतानि शनैः शनैः
विद्याहीना न शोभन्ते — निर्गन्धा इव किंशुकाः
न चोरहार्यं न च राजहार्यम् — न भ्रातृभाज्यं न च भारकारि
विद्या राजसु पूज्यते — न हि धनम्
अतो धर्मार्थमोक्षेभ्यः — विद्याभ्यासं समाचरेत्
प्रश्नः 4NCERT PDF पृष्ठ 67
उदाहरणानुसारम् अधः रेखाङ्कितानि पदानि आश्रित्य प्रश्ननिर्माणं कुर्वन्तु —- (क) राजा पृथिव्याः भूषणं भवति।
- (ख) साधोः विद्या ज्ञानाय भवति।
- (ग) विद्या गुरूणां गुरुः।
- (घ) ते मर्त्यलोके भुवि भारभूताः भवन्ति।
- (ङ) विद्याहीनाः न शोभन्ते।
- (च) सर्वस्य लोचनं शास्त्रम्।
(छ) विद्या राजसु पूज्यते।
(ज) काव्यशास्त्रविनोदेन कालो गच्छति धीमताम्।
उत्तरम्
(क) राजा कस्याः भूषणं भवति ?
(ख) कस्य विद्या ज्ञानाय भवति ?
(ग) विद्या केषां गुरुः ?
(घ) ते मर्त्यलोके भुवि कीदृशाः भवन्ति ?
(ङ) के न शोभन्ते ?
(च) सर्वस्य लोचनं किम् ?
(छ) का राजसु पूज्यते ?
(ज) केन धीमतां कालो गच्छति ?
प्रश्नः 5Fill in the blanksNCERT PDF पृष्ठ 68
मञ्जूषातः (रक्षणाय, मदाय, विवादाय, परिपीडनाय, ज्ञानाय, दानाय) समुचितानि पदानि स्वीकृत्य रिक्तस्थानानि पूरयन्तु — सज्जनस्य / दुर्जनस्य : शक्तिः ____, विद्या ____, धनम् ____
प्रश्नः 6NCERT PDF पृष्ठ 68
उदाहरणानुसारम् अधोलिखितानां पदानां विभक्तिं वचनं च लिखन्तु —
यथा – ताराणाम् – षष्ठी विभक्तिः – बहुवचनम्- (क) विद्याम्
- (ख) धनस्य
- (ग) कलहेन
- (घ) नराणाम्
- (ङ) मर्त्यलोके
- (च) ज्ञानाय (छ) राजसु