Skip to content

Ch 9 · कोऽरुक्? कोऽरुक्? कोऽरुक्?

परियोजनाकार्यम्

Exercise 2 of 2

पाठ 9: कोऽरुक्? कोऽरुक्? कोऽरुक्?

परियोजनाकार्यम् · दीपकम् · कक्षा 8 · NCERT 2026-27

प्रश्न १NCERT PDF पृष्ठ 14

विद्यालयस्य परिसरे विद्यमानानां पञ्चवृक्षाणां नामानि तेषाम् औषधीयं प्रयोगं च लिखत ।

उत्तरम्
  • तुलसी — कासे, ज्वरे, प्रतिश्याये (सर्दी-जुकाम) उपयोगी।
  • निम्बः (नीम) — त्वग्रोगेषु, कीटनाशकरूपेण, दन्तधावनाय।
  • आमलकी (आँवला) — ‘विटामिन-सी’ युक्ता, रोगप्रतिरोधकक्षमतां वर्धयति।
  • अश्वत्थः (पीपल) — प्राणवायुं ददाति; त्वक् व्रणेषु उपयुज्यते।
  • बिल्वः (बेल) — पाचनक्रियां वर्धयति, उदररोगेषु हितकरः।
प्रश्न २NCERT PDF पृष्ठ 14

स्वास्थ्येन सम्बद्धानां दशश्लोकानां संग्रहणं कुरुत ।

उत्तरम्

स्वास्थ्यविषयकाः केचन श्लोकाः —
१. शरीरमाद्यं खलु धर्मसाधनम्।
२. हितभुक् मितभुक् ऋतभुक् (कोऽरुक्?)।
३. ब्राह्मे मुहूर्ते उत्तिष्ठेत् स्वस्थो रक्षार्थमायुषः।
४. भोजनान्ते पिबेत् तक्रं वासरान्ते पिबेत् पयः। निशान्ते च पिबेत् वारि त्रिभी रोगो न जायते॥
५. व्यायामात् लभते स्वास्थ्यं दीर्घायुष्यं बलं सुखम्।
(एवमेव अन्यान् श्लोकान् अपि सङ्गृह्णीत।)