पाठ 5: एषा सा कृतकबुद्धिः मानवबुद्धेः सहकरी
मेलनम्, शब्दजालम्, शुद्धाशुद्धम् · शारदा · कक्षा 9 · NCERT 2026-27
कक्षायां अध्यापकः छात्रैः सह कृतकबुद्धेः (Artificial Intelligence) विषये संवदति — तस्याः प्रकाराः, डेटासेट्, पूर्वग्रहः, शिक्षा-चिकित्सा-कृषि-अपराधशमनक्षेत्रेषु उपयोगः, डीप्-फेक् इति भयम्, तस्य निराकरणोपायाः च। “कृतकबुद्धिः मित्रं भवेत्, न भवेत् स्वामी।” सर्वेषां प्रश्नानां पूर्णानि उत्तराणि।
प्रश्नः 1NCERT PDF पृष्ठ 11
२. मेलनं कुरुत —- (क) चैट-जीपीटी
- (ख) डीप्-फेक्
- (ग) शिक्षकः
- (घ) एलेक्सा
- (ङ) डेटासेट्
- (च) दीक्षा (छ) पूर्वानुमेय-नियन्त्रणम् (ज) गूगल मानचित्रम् (झ) पूर्वग्रहः (ञ) डॅल्-ई
प्रश्नः 2NCERT PDF पृष्ठ 13
४. शब्दजाले वामतः दक्षिणम् उपरितः अधः च पाठे आगतानि नूतनपदानि रेखाङ्कयत।
उत्तरम्
शब्दजाले प्राप्यमाणानि पदानि (उदाहरणद्वयं विहाय) —
- वामतः दक्षिणम्: कृतकबुद्धिः (उदाहरणम्), गूगलमानचित्रः, डीप्, सिरि, शिक्षा, यन्त्राधिगमः, चैटबोट्, एलेक्सा, डिजिटल्, दीपम्
- उपरितः अधः: डेटासेट् (उदाहरणम्), चर्चा, फेक् (डीप्-फेक्), चैटजीपीटी, ए.आई., सहायकः
(पुस्तके मुद्रितं जालं दृष्ट्वा पदानि वृत्तेन रेखाङ्कनीयानि।)
प्रश्नः 3NCERT PDF पृष्ठ 14
५. वाक्यानि पठित्वा शुद्धम् (✓) अशुद्धं (✗) वा चिनुत —- (क) आर्यः यशिका च विद्यालये कृतकबुद्धेः उपयोगं कुरुत।
- (ख) कृतकबुद्धिः केवलं विनोदानुकूलम् उपकरणम् अस्ति।
- (ग) अथर्वः अपि शिक्षायां कृतकबुद्धेः प्रयोगं करोति।
- (घ) अक्षतः चैट्बोट् इत्यस्य साहाय्येन उपन्यासलेखनं करोति।
- (ङ) ए.आइ. डीप्-फेक् इत्यपि कश्चन दुरुपयोगः अस्ति।
- (च) आर्यः चित्रनिर्माणाय कृतकबुद्धेः साहाय्यं प्राप्नोति। (छ) शिक्षकः गम्भीरतया चैट्बोट् वाक्यानां मूल्याङ्कनं करोति।
उत्तरम्
(पाठस्य आधारेण)
- (क) ✗ — पाठे आर्यः यशिका च कक्षायां कृतकबुद्धेः विषये केवलं प्रश्नान् पृच्छतः; अपि च ‘कुरुत’ इति क्रियापदम् अशुद्धम्, ‘कुरुतः’ इति शुद्धम्।
- (ख) ✗ — कृतकबुद्धिः शिक्षा-चिकित्सा-कृषि-न्यायालय-वित्तादिषु बहुषु क्षेत्रेषु प्रयुज्यते।
- (ग) ✗ — अथर्वः शिक्षायां कृतकबुद्धिः कथं साहाय्यं करोति इति पृच्छति; यशिका चैट-जीपीटी इत्यनेन उत्तराणि प्राप्तवती।
- (घ) ✗ — पाठे एतादृशं नास्ति; अक्षतः कृषिक्षेत्रे उपयोगं पृच्छति, वेदः चैट-जीपीटी-तः श्लोकं प्राप्तवान्।
- (ङ) ✓
- (च) ✗ — आर्यः चिकित्सायां कृतकबुद्धेः उपयोगं पृच्छति; चित्रनिर्माणस्य उल्लेखः तस्य विषये नास्ति।
- (छ) ✓ — शिक्षकः चैट्बोट्-रचितं श्लोकं श्रुत्वा “अत्र भवन्तः किं चिन्तयन्ति?” इति पृष्ट्वा छात्रान् विवेकेन तस्य मूल्याङ्कनाय प्रेरयति।
प्रश्नः 4NCERT PDF पृष्ठ 14
६. चित्रम् आधारीकृत्य (रोबोटः, संगणकाः, कार्यालयः) संस्कृतभाषायां पञ्च वाक्यानि रचयत।
उत्तरम्
- (क) चित्रे एकः श्वेतवर्णः रोबोटः (यन्त्रमानवः) तिष्ठति।
- (ख) एकः उपनेत्रधारी पुरुषः रोबोटं सविस्मयं पश्यति।
- (ग) पृष्ठभागे जनाः सङ्गणकयन्त्रैः कार्यं कुर्वन्ति।
- (घ) भित्तिषु बृहत्पटलेषु (screens) दत्तांशाः चित्राणि च दृश्यन्ते।
- (ङ) एषः कृतकबुद्धि-प्रयोगशाला इव प्रतीयते, यत्र मानवः यन्त्रं च सहकारेण कार्यं कुरुतः।